Sukta 7.100
वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥
वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् । वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
váṣaṭ te viṣṇavāsa ā́ kṛṇomi tán me juṣasva śipiviṣṭa hávyam | várdhantu tvā suṣṭutáyo gíro me yūyáṃ pāta svastíbhiḥ sádā naḥ ||
I make for you the vaṣaṭ-call, O Vishnu; accept my offering, O Shipiviṣṭa. May my well-shaped praises and words increase you; do you guard us always with your powers of well-being and right-going.
वष॑ट् । ते॒ । वि॒ष्णो॒ इति॑ । आ॒सः । आ । कृ॒णो॒मि॒ । तत् । मे॒ । जु॒ष॒स्व॒ । शि॒पि॒ऽवि॒ष्ट॒ । ह॒व्यम् । वर्ध॑न्तु । त्वा॒ । सु॒ऽस्तु॒तयः॑ । गिरः॑ । मे॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥वषट् । ते । विष्णो इति । आसः । आ । कृणोमि । तत् । मे । जुषस्व । शिपिविष्ट । हव्यम् । वर्धन्तु । त्वा । सुस्तुतयः । गिरः । मे । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥vaṣaṭ | te | viṣṇo iti | āsaḥ | ā | kṛṇomi | tat | me | juṣasva | śipi-viṣṭa | havyam | vardhantu | tvā | su-stutayaḥ | giraḥ | me | yūyam | pāta | svasti-bhiḥ | sadā | naḥ