Sukta 7.100
प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् । तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥
प्र तत्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शं॑सामि व॒युना॑नि वि॒द्वान् । तं त्वा॑ गृणामि त॒वस॒मत॑व्या॒न्क्षय॑न्तम॒स्य रज॑सः परा॒के ॥
prá tát te adyá śipiviṣṭa nā́mā́ryaḥ śáṃsāmi vayúnāni vidvā́n | táṃ tvā gṛṇāmi távasam átavyān kṣáyantam asyá rájasaḥ parāké ||
Today I proclaim that name of yours, O Shipiviṣṭa; as one who knows the workings, I declare your ways. I sing you, the mighty, the unconquerable, who dwells in the far reaches of this luminous space—beyond the grasp of the lower vision.
प्र । तत् । ते॒ । अ॒द्य । शि॒पि॒ऽवि॒ष्ट॒ । नाम॑ । अ॒र्यः । शं॒सा॒मि॒ । व॒युना॑नि । वि॒द्वान् । तम् । त्वा॒ । गृ॒णा॒मि॒ । त॒वस॑म् । अत॑व्यान् । क्षय॑न्तम् । अ॒स्य । रज॑सः । प॒रा॒के ॥प्र । तत् । ते । अद्य । शिपिविष्ट । नाम । अर्यः । शंसामि । वयुनानि । विद्वान् । तम् । त्वा । गृणामि । तवसम् । अतव्यान् । क्षयन्तम् । अस्य । रजसः । पराके ॥pra | tat | te | adya | śipi-viṣṭa | nāma | aryaḥ | śaṃsāmi | vayunāni | vidvān | tam | tvā | gṛṇāmi | tavasam | atavyān | kṣayantam | asya | rajasaḥ | parāke