Sukta 7.100
वि चक्रमे पृथिवीमेष एतां क्षेत्राय विष्णुर्मनुषे दशस्यन् । ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥
वि च॑क्रमे पृथि॒वीमे॒ष ए॒तां क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् । ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑स उरुक्षि॒तिं सु॒जनि॑मा चकार ॥
ví cakrame pṛthivī́m eṣá etā́ṃ kṣétrāya víṣṇur mánuṣe daśasyán | dhruvā́so asya kīráyo jánāsa urukṣitíṃ sujánimā cakāra ||
He strode out this earth for a field of action; Vishnu, serving and fostering the human, established. Firm are his praising peoples; he made for them a wide dwelling and a good birth—an enlarged and harmonious foundation for the soul’s works.
वि । च॒क्र॒मे॒ । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । क्षेत्रा॑य । विष्णुः॑ । मनु॑षे । द॒श॒स्यन् । ध्रु॒वासः॑ । अ॒स्य॒ । की॒रयः॑ । जना॑सः । उ॒रु॒ऽक्षि॒तिम् । सु॒ऽजनि॑मा । च॒का॒र॒ ॥वि । चक्रमे । पृथिवीम् । एषः । एताम् । क्षेत्राय । विष्णुः । मनुषे । दशस्यन् । ध्रुवासः । अस्य । कीरयः । जनासः । उरुक्षितिम् । सुजनिमा । चकार ॥vi | cakrame | pṛthivīm | eṣaḥ | etām | kṣetrāya | viṣṇuḥ | manuṣe | daśasyan | dhruvāsaḥ | asya | kīrayaḥ | janāsaḥ | uru-kṣitim | su-janimā | cakāra