Sukta 7.100
त्रिर्देवः पृथिवीमेष एतां वि चक्रमे शतर्चसं महित्वा । प्र विष्णुरस्तु तवसस्तवीयान्त्वेषं ह्यस्य स्थविरस्य नाम ॥
त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒तां वि च॑क्रमे श॒तर्च॑सं महि॒त्वा । प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान्त्वे॒षं ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥
trír deváḥ pṛthivī́m eṣá etā́ṃ ví cakrame śatár̥casaṃ mahitvā́ | prá víṣṇur astu távasas távīyān tveṣáṃ hí asya sthávirasya nā́ma ||
Thrice the god strode out this earth, and by his greatness made it a hundred-hymned field. Let Vishnu be manifest as mightier than might; for ‘the Impetuous’ is the name of this Eternal Strong One.
त्रिः । दे॒वः । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । वि । च॒क्र॒मे॒ । श॒तऽअ॑र्चसम् । म॒हि॒ऽत्वा । प्र । विष्णुः॑ । अ॒स्तु॒ । त॒वसः॑ । तवी॑यान् । त्वे॒षम् । हि । अ॒स्य॒ । स्थवि॑रस्य । नाम॑ ॥त्रिः । देवः । पृथिवीम् । एषः । एताम् । वि । चक्रमे । शतअर्चसम् । महित्वा । प्र । विष्णुः । अस्तु । तवसः । तवीयान् । त्वेषम् । हि । अस्य । स्थविरस्य । नाम ॥triḥ | devaḥ | pṛthivīm | eṣaḥ | etām | vi | cakrame | śata-arcasam | mahi-tvā | pra | viṣṇuḥ | astu | tavasaḥ | tavīyān | tveṣam | hi | asya | sthavirasya | nāma