Sukta 7.10
उषो न जारः पृथु पाजो अश्रेद्दविद्युतद्दीद्यच्छोशुचानः । वृषा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः ॥
उ॒षो न जा॒रः पृ॒थु पाजो॑ अश्रे॒द्दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः । वृषा॒ हरि॒: शुचि॒रा भा॑ति भा॒सा धियो॑ हिन्वा॒न उ॑श॒तीर॑जीगः ॥
uṣó na jāráḥ pṛthú pā́jo aśret davídyutat dī́dyac chośucānáḥ | vṛ́ṣā hár iḥ śucírā́ bhāti bhāsā́ dhíyo hinvāná uśatī́r ajīgar ||
Like the lover of Dawn he has stretched out his wide splendor; flashing, blazing, he burns in his self-luminosity. The strong golden one shines with a pure radiance; driving the thoughts forward, he has awakened the aspiring energies.
उ॒षः । न । जा॒रः । पृ॒थु । पाजः॑ । अ॒श्रे॒त् । दवि॑द्युतत् । दीद्य॑त् । शोशु॑चानः । वृषा॑ । हरिः॑ । शुचिः॑ । आ । भा॒ति॒ । भा॒सा । धियः॑ । हि॒न्वा॒नः । उ॒श॒तीः । अ॒जी॒ग॒रिति॑ ॥उषः । न । जारः । पृथु । पाजः । अश्रेत् । दविद्युतत् । दीद्यत् । शोशुचानः । वृषा । हरिः । शुचिः । आ । भाति । भासा । धियः । हिन्वानः । उशतीः । अजीगरिति ॥uṣaḥ | na | jāraḥ | pṛthu | pājaḥ | aśret | davidyutat | dīdyat | śośucānaḥ | vṛṣā | har iḥ | śuciḥ | ā | bhāti | bhāsā | dhiyaḥ | hinvānaḥ | uśatīḥ | ajīgariti