Sukta 7.1
वि ये ते अग्ने भेजिरे अनीकं मर्ता नरः पित्र्यासः पुरुत्रा । उतो न एभिः सुमना इह स्याः ॥
वि ये ते॑ अग्ने भेजि॒रे अनी॑कं॒ मर्ता॒ नर॒: पित्र्या॑सः पुरु॒त्रा । उ॒तो न॑ ए॒भिः सु॒मना॑ इ॒ह स्या॑: ॥
ví ye té agne bhejiré anī́kaṃ mártā nárāḥ pitryā́saḥ purutrā́ | utó na ebhíḥ sumánā ihá syāḥ ||
Those mortal men, heirs of the fathers in many places, who have taken their share in your manifest power—O Agni—by these means be here with us in a glad and harmonious mind: consent to our progress.
वि । ये । ते॒ । अ॒ग्ने॒ । भे॒जि॒रे । अनी॑कम् । मर्ताः॑ । नरः॑ । पित्र्या॑सः । पु॒रु॒ऽत्रा । उ॒तो इति॑ । नः॒ । ए॒भिः । सु॒ऽमनाः॑ । इ॒ह । स्याः॒ ॥वि । ये । ते । अग्ने । भेजिरे । अनीकम् । मर्ताः । नरः । पित्र्यासः । पुरुत्रा । उतो इति । नः । एभिः । सुमनाः । इह । स्याः ॥vi | ye | te | agne | bhejire | anīkam | martāḥ | naraḥ | pitryāsaḥ | puru-trā | uto iti | naḥ | ebhiḥ | su-manāḥ | iha | syāḥ