Sukta 7.1
आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक । उतो न एभिः स्तवथैरिह स्याः ॥
आ यस्ते॑ अग्न इध॒ते अनी॑कं॒ वसि॑ष्ठ॒ शुक्र॒ दीदि॑व॒: पाव॑क । उ॒तो न॑ ए॒भिः स्त॒वथै॑रि॒ह स्या॑: ॥
ā yás té agne idháte anī́kaṃ vásiṣṭha śúkra dī́di-vaḥ pā́vaka | utó na ebhíḥ staváthair ihá syāḥ ||
O Agni, when one kindles for you the front of your shining power—O most-steadfast, bright, ever-luminous Purifier—then by these our affirmations of praise be present here with us: enter the field of our becoming and work in us.
आ । यः । ते॒ । अ॒ग्ने॒ । इ॒ध॒ते । अनी॑कम् । वसि॑ष्ठ । शुक्र॑ । दीदि॑ऽवः । पाव॑क । उ॒तो इति॑ । नः॒ । ए॒भिः । स्त॒वथैः॑ । इ॒ह । स्याः॒ ॥आ । यः । ते । अग्ने । इधते । अनीकम् । वसिष्ठ । शुक्र । दीदिवः । पावक । उतो इति । नः । एभिः । स्तवथैः । इह । स्याः ॥ā | yaḥ | te | agne | idhate | anīkam | vasiṣṭha | śukra | dīdi-vaḥ | pāvaka | uto iti | naḥ | ebhiḥ | stavathaiḥ | iha | syāḥ