Sukta 7.1
विश्वा अग्नेऽप दहारातीर्येभिस्तपोभिरदहो जरूथम् । प्र निस्वरं चातयस्वामीवाम् ॥
विश्वा॑ अ॒ग्नेऽप॑ द॒हारा॑ती॒र्येभि॒स्तपो॑भि॒रद॑हो॒ जरू॑थम् । प्र नि॑स्व॒रं चा॑तय॒स्वामी॑वाम् ॥
viśvā́ agne ápa dahā́rātīr yébhis tápobhir ádaho járūtham | prá ni-svaráṃ cā́tayasvāmī́vām ||
Burn away, O Agni, all the hostile powers—by those fires of tapas with which you once burned the old decay; drive out, with a clear cry, the sickness that assails.
विश्वाः॑ । अ॒ग्ने॒ । अप॑ । द॒ह॒ । अरा॑तीः । येभिः॑ । तपः॑ऽभिः । अद॑हः । जरू॑थम् । प्र । नि॒ऽस्व॒रम् । चा॒त॒य॒स्व॒ । अमी॑वाम् ॥विश्वाः । अग्ने । अप । दह । अरातीः । येभिः । तपःभिः । अदहः । जरूथम् । प्र । निस्वरम् । चातयस्व । अमीवाम् ॥viśvāḥ | agne | apa | daha | arātīḥ | yebhiḥ | tapaḥ-bhiḥ | adahaḥ | jarūtham | pra | ni-svaram | cātayasva | amīvām