Sukta 7.1
प्र ते अग्नयोऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः । यत्रा नरः समासते सुजाताः ॥
प्र ते अ॒ग्नयो॒ऽग्निभ्यो॒ वरं॒ निः सु॒वीरा॑सः शोशुचन्त द्यु॒मन्त॑: । यत्रा॒ नर॑: स॒मास॑ते सुजा॒ताः ॥
prá te agnáyo ’gníbhyo váraṃ níḥ su-vī́rāsaḥ śośucanta dyu-mántaḥ | yátrā nárāḥ sam-ā́sate su-jātā́ḥ ||
Forth from you the fires stream out among the fires—radiant, full of hero-force—where the well-born seekers gather together in harmony.
प्र । ते । अ॒ग्नयः॑ । अ॒ग्निऽभ्यः॑ । वर॑म् । निः । सु॒ऽवीरा॑सः । शो॒शु॒च॒न्त॒ । द्यु॒ऽमन्तः॑ । यत्र॑ । नरः॑ । स॒म्ऽआस॑ते । सु॒ऽजा॒ताः ॥प्र । ते । अग्नयः । अग्निभ्यः । वरम् । निः । सुवीरासः । शोशुचन्त । द्युमन्तः । यत्र । नरः । सम्आसते । सुजाताः ॥pra | te | agnayaḥ | agni-bhyaḥ | varam | niḥ | su-vīrāsaḥ | śośucanta | dyu-mantaḥ | yatra | naraḥ | sam-āsate | su-jātāḥ