Sukta 7.1
प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वां शश्वन्त उप यन्ति वाजाः ॥
प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑ यविष्ठ । त्वां शश्व॑न्त॒ उप॑ यन्ति॒ वाजा॑: ॥
préd-dho agne dīdihi puró no ájasrayā sū́rmyā yaviṣṭha | tvā́ṃ śáśvanta úpa yanti vā́jāḥ ||
Kindled, O Agni, blaze in front of us with an unfailing and puissant flame, O youngest; to you the plenitudes of force come ever approaching.
प्रऽइ॑द्धः । अ॒ग्ने॒ । दी॒दि॒हि॒ । पु॒रः । नः॒ । अज॑स्रया । सू॒र्म्या॑ । य॒वि॒ष्ठ॒ । त्वाम् । शश्व॑न्तः । उप॑ । य॒न्ति॒ । वाजाः॑ ॥प्रइद्धः । अग्ने । दीदिहि । पुरः । नः । अजस्रया । सूर्म्या । यविष्ठ । त्वाम् । शश्वन्तः । उप । यन्ति । वाजाः ॥pra-iddhaḥ | agne | dīdihi | puraḥ | naḥ | ajasrayā | sūrmyā | yaviṣṭha | tvām | śaśvantaḥ | upa | yanti | vājāḥ