Sukta 7.1
तमग्निमस्ते वसवो न्यृण्वन्त्सुप्रतिचक्षमवसे कुतश्चित् । दक्षाय्यो यो दम आस नित्यः ॥
तम॒ग्निमस्ते॒ वस॑वो॒ न्यृ॑ण्वन्त्सुप्रति॒चक्ष॒मव॑से॒ कुत॑श्चित् । द॒क्षाय्यो॒ यो दम॒ आस॒ नित्य॑: ॥
tám agním áste vásavo ní ṛṇvanti su-praticákṣam ávase kútaś cit | dakṣā́yyo yó dáme ā́sa nítyaḥ ||
That Agni the Vasus establish here—clear to behold—for help from whatever quarter; he is the one to be chosen for skill, who abides in the home for ever.
तम् । अ॒ग्निम् । अस्ते॑ । वस॑वः । नि । ऋ॒ण्व॒न् । सु॒ऽप्र॒ति॒चक्ष॑म् । अव॑से । कुतः॑ । चि॒त् । द॒क्षाय्यः॑ । यः । दमे॑ । आस॑ । नित्यः॑ ॥तम् । अग्निम् । अस्ते । वसवः । नि । ऋण्वन् । सुप्रतिचक्षम् । अवसे । कुतः । चित् । दक्षाय्यः । यः । दमे । आस । नित्यः ॥tam | agnim | aste | vasavaḥ | ni | ṛṇvan | su-praticakṣam | avase | kutaḥ | cit | dakṣāyyaḥ | yaḥ | dame | āsa | nityaḥ