Sukta 7.1
मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्वग्निषु प्र वोचः । मा ते अस्मान्दुर्मतयो भृमाच्चिद्देवस्य सूनो सहसो नशन्त ॥
मा नो॑ अग्ने दुर्भृ॒तये॒ सचै॒षु दे॒वेद्धे॑ष्व॒ग्निषु॒ प्र वो॑चः । मा ते॑ अ॒स्मान्दु॑र्म॒तयो॑ भृ॒माच्चि॑द्दे॒वस्य॑ सूनो सहसो नशन्त ॥
mā no agne durbhṛtáye sácaiṣú devéddheṣv agníṣu prá vocaḥ | mā te asmā́n durmátayo bhṛmā́c cid devásya sūno sahaso náśanta ||
O Agni, do not attach us to a wrong bearing of the rite; among these fires kindled for the gods, do not proclaim us as faulty. Let not evil thoughts destroy us, even by a wandering error—O Son of the God, O Son of Force.
मा । नः॒ । अ॒ग्ने॒ । दुः॒ऽभृ॒तये॑ । सचा॑ । ए॒षु । दे॒वऽइ॑द्धेषु । अ॒ग्निषु॑ । प्र । वो॒चः॒ । मा । ते॒ । अ॒स्मान् । दुः॒ऽम॒तयः॑ । भृ॒मात् । चि॒त् । दे॒वस्य॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । न॒श॒न्त॒ ॥मा । नः । अग्ने । दुःभृतये । सचा । एषु । देवइद्धेषु । अग्निषु । प्र । वोचः । मा । ते । अस्मान् । दुःमतयः । भृमात् । चित् । देवस्य । सूनो इति । सहसः । नशन्त ॥mā | naḥ | agne | duḥ-bhṛtaye | sacā | eṣu | deva-iddheṣu | agniṣu | pra | vocaḥ | mā | te | asmān | duḥ-matayaḥ | bhṛmāt | cit | devasya | sūno iti | sahasaḥ | naśanta