Sukta 7.1
त्वमग्ने सुहवो रण्वसंदृक्सुदीती सूनो सहसो दिदीहि । मा त्वे सचा तनये नित्य आ धङ्मा वीरो अस्मन्नर्यो वि दासीत् ॥
त्वम॑ग्ने सु॒हवो॑ र॒ण्वसं॑दृक्सुदी॒ती सू॑नो सहसो दिदीहि । मा त्वे सचा॒ तन॑ये॒ नित्य॒ आ ध॒ङ्मा वी॒रो अ॒स्मन्नर्यो॒ वि दा॑सीत् ॥
tvám agne suhávo raṇvásandṛk sudītī́ sūno sahaso didīhi | mā tvé sacā tánaye nítya ā́ dhak mā vī́ro asmán naryó ví dāsīt ||
You, O Agni, are easy to call, delight-seeing, and of bright flame; O Son of Force, blaze forth. Do not burn away the constant offspring that cleaves to you; let not the heroic power, the human strength in us, be cut off and scattered.
त्वम् । अ॒ग्ने॒ । सु॒ऽहवः॑ । र॒ण्वऽस॑न्दृक् । सु॒ऽदी॒ती । सू॒नो॒ इति॑ । स॒ह॒सः॒ । दि॒दी॒हि॒ । मा । त्वे इति॑ । सचा॑ । तन॑ये । नित्ये॑ । आ । ध॒क् । मा । वी॒रः । अ॒स्मत् । नर्यः॑ । वि । दा॒सी॒त् ॥त्वम् । अग्ने । सुहवः । रण्वसन्दृक् । सुदीती । सूनो इति । सहसः । दिदीहि । मा । त्वे इति । सचा । तनये । नित्ये । आ । धक् । मा । वीरः । अस्मत् । नर्यः । वि । दासीत् ॥tvam | agne | su-havaḥ | raṇva-sandṛk | su-dītī | sūno iti | sahasaḥ | didīhi | mā | tve iti | sacā | tanaye | nitye | ā | dhak | mā | vīraḥ | asmat | naryaḥ | vi | dāsīt