Sukta 7.1
नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः । रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥
नू मे॒ ब्रह्मा॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः सुषूदः । रा॒तौ स्या॑मो॒भया॑स॒ आ ते॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
nū́ me bráhmāṇy agna úcchaśādhi tváṃ deva maghávadbhyaḥ susū́daḥ | rātáu syāmo’bháyāsa ā́ te yūyáṃ pāta svastíbhiḥ sádā naḥ ||
Now, O Agni, lift up and set in motion my mantras; you, O God, who press forward the giving ones, make them well-impelled. May we be secure on both sides in the movement of giving; may you protect us always with states of well-being.
नु । मे॒ । ब्रह्मा॑णि । अ॒ग्ने॒ । उत् । श॒शा॒धि॒ । त्वम् । दे॒व॒ । म॒घव॑त्ऽभ्यः । सु॒सू॒दः॒ । रा॒तौ । स्या॒म॒ । उ॒भया॑सः । आ । ते॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥नु । मे । ब्रह्माणि । अग्ने । उत् । शशाधि । त्वम् । देव । मघवत्भ्यः । सुसूदः । रातौ । स्याम । उभयासः । आ । ते । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥nu | me | brahmāṇi | agne | ut | śaśādhi | tvam | deva | maghavat-bhyaḥ | susūdaḥ | rātau | syāma | ubhayāsaḥ | ā | te | yūyam | pāta | svasti-bhiḥ | sadā | naḥ