Sukta 7.1
इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ । प्रति न ईं सुरभीणि व्यन्तु ॥
इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता॑ति॒मच्छ॑ । प्रति॑ न ईं सुर॒भीणि॑ व्यन्तु ॥
imó agne vītátamāni havyā́jasro vakṣi devátātim íccha | práti na īṃ surabhī́ṇi vyantu ||
O Agni, these offerings, most fit to be enjoyed, bring them unceasingly; seek and lead to us the host of the divine Powers. In response, may the fragrant (joy-giving) currents breathe out towards us.
इ॒मो इति॑ । अ॒ग्ने॒ । वी॒तऽत॑मानि । ह॒व्या । अज॑स्रः । व॒क्षि॒ । दे॒वऽता॑तिम् । इच्छ॑ । प्रति॑ । नः॒ । ई॒म् । सु॒र॒भीणि॑ । व्य॒न्तु॒ ॥इमो इति । अग्ने । वीततमानि । हव्या । अजस्रः । वक्षि । देवतातिम् । इच्छ । प्रति । नः । ईम् । सुरभीणि । व्यन्तु ॥imo iti | agne | vīta-tamāni | havyā | ajasraḥ | vakṣi | deva-tātim | iccha | prati | naḥ | īm | surabhīṇi | vyantu