Sukta 7.1
अयं सो अग्निराहुतः पुरुत्रा यमीशानः समिदिन्धे हविष्मान् । परि यमेत्यध्वरेषु होता ॥
अ॒यं सो अ॒ग्निराहु॑तः पुरु॒त्रा यमीशा॑न॒: समिदि॒न्धे ह॒विष्मा॑न् । परि॒ यमेत्य॑ध्व॒रेषु॒ होता॑ ॥
ayáṃ só agnír ā́hutaḥ purutrā́ yám ī́śānaḥ sám id indhé havíṣmān | pári yám éty adhvaréṣu hóta ||
This is that Agni, offered in many ways—whom the master of the sacrifice kindles fully with the oblation. As Hotṛ he moves around through the works of offering, ordering them from within.
अ॒यम् । सः । अ॒ग्निः । आऽहु॑तः । पु॒रु॒ऽत्रा । यम् । ईशा॑नः । सम् । इत् । इ॒न्धे । ह॒विष्मा॑न् । परि॑ । यम् । एति॑ । अ॒ध्व॒रेषु॑ । होता॑ ॥अयम् । सः । अग्निः । आहुतः । पुरुत्रा । यम् । ईशानः । सम् । इत् । इन्धे । हविष्मान् । परि । यम् । एति । अध्वरेषु । होता ॥ayam | saḥ | agniḥ | āhutaḥ | puru-trā | yam | īśānaḥ | sam | it | indhe | haviṣmān | pari | yam | eti | adhvareṣu | hotā