Sukta 7.1
सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात् । सुजातासः परि चरन्ति वीराः ॥
सेद॒ग्निर्यो व॑नुष्य॒तो नि॒पाति॑ समे॒द्धार॒मंह॑स उरु॒ष्यात् । सु॒जा॒तास॒: परि॑ चरन्ति वी॒राः ॥
séd agnír yó vanuṣyató nípāti sameddhā́ram áṃhasa uruṣyā́t | sujātā́saḥ pári caranti vīrā́ḥ ||
This Agni—when one seeks to serve—descends upon the well-kindler and widens him out from distress. Around him move the well-born heroes: the right powers circulate and guard.
सः । इत् । अ॒ग्निः । यः । व॒नु॒ष्य॒तः । नि॒ऽपाति॑ । स॒म्ऽए॒द्धार॑म् । अंह॑सः । उ॒रु॒ष्यात् । सु॒ऽजा॒तासः॑ । परि॑ । च॒र॒न्ति॒ । वी॒राः ॥सः । इत् । अग्निः । यः । वनुष्यतः । निपाति । सम्एद्धारम् । अंहसः । उरुष्यात् । सुजातासः । परि । चरन्ति । वीराः ॥saḥ | it | agniḥ | yaḥ | vanuṣyataḥ | ni-pāti | sam-eddhāram | aṃhasaḥ | uruṣyāt | su-jātāsaḥ | pari | caranti | vīrāḥ