Sukta 7.1
सेदग्निरग्नीँरत्यस्त्वन्यान्यत्र वाजी तनयो वीळुपाणिः । सहस्रपाथा अक्षरा समेति ॥
सेद॒ग्निर॒ग्नीँरत्य॑स्त्व॒न्यान्यत्र॑ वा॒जी तन॑यो वी॒ळुपा॑णिः । स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ ॥
séd agnír agnī́ṃr áty astv anyā́n yátra vājī́ tánayo vīḷú-pāṇiḥ | sahásra-pāthā akṣárā saméti ||
May this Agni surpass the other fires—there where the plenitude of force is born, the strong-handed offspring. A thousand paths he possesses; he comes together with the imperishable Word/stream of power.
सः । इत् । अ॒ग्निः । अ॒ग्नीन् । अति॑ । अ॒स्तु॒ । अ॒न्यान् । यत्र॑ । वा॒जी । तन॑यः । वी॒ळुऽपा॑णिः । स॒हस्र॑ऽपाथाः । अ॒क्षरा॑ । स॒म्ऽएति॑ ॥सः । इत् । अग्निः । अग्नीन् । अति । अस्तु । अन्यान् । यत्र । वाजी । तनयः । वीळुपाणिः । सहस्रपाथाः । अक्षरा । सम्एति ॥saḥ | it | agniḥ | agnīn | ati | astu | anyān | yatra | vājī | tanayaḥ | vīḷu-pāṇiḥ | sahasra-pāthāḥ | akṣarā | sam-eti