Sukta 7.1
पाहि नो अग्ने रक्षसो अजुष्टात्पाहि धूर्तेरररुषो अघायोः । त्वा युजा पृतनायूँरभि ष्याम् ॥
पा॒हि नो॑ अग्ने र॒क्षसो॒ अजु॑ष्टात्पा॒हि धू॒र्तेरर॑रुषो अघा॒योः । त्वा यु॒जा पृ॑तना॒यूँर॒भि ष्या॑म् ॥
pā́hi no agne rakṣáso ájuṣṭāt pā́hi dhūrtér araruṣo aghāyóḥ | tvā yujā́ pṛtanāyū́ṃr abhí syām ||
Guard us, O Agni, from the Rakṣasas who do not consent to the Truth; guard us from the deceiver, from the raging doer of harm. With you as our yoke-fellow, may we overcome the assailants in the battle.
पा॒हि । नः॒ । अ॒ग्ने॒ । र॒क्षसः॑ । अजु॑ष्टात् । पा॒हि । धू॒र्तेः । अर॑रुषः । अ॒घ॒ऽयोः । त्वा । यु॒जा । पृ॒त॒ना॒ऽयून् । अ॒भि । स्या॒म् ॥पाहि । नः । अग्ने । रक्षसः । अजुष्टात् । पाहि । धूर्तेः । अररुषः । अघयोः । त्वा । युजा । पृतनायून् । अभि । स्याम् ॥pāhi | naḥ | agne | rakṣasaḥ | ajuṣṭāt | pāhi | dhūrteḥ | araruṣaḥ | agha-yoḥ | tvā | yujā | pṛtanāyūn | abhi | syām