Sukta 7.1
यमश्वी नित्यमुपयाति यज्ञं प्रजावन्तं स्वपत्यं क्षयं नः । स्वजन्मना शेषसा वावृधानम् ॥
यम॒श्वी नित्य॑मुप॒याति॑ य॒ज्ञं प्र॒जाव॑न्तं स्वप॒त्यं क्षयं॑ नः । स्वज॑न्मना॒ शेष॑सा वावृधा॒नम् ॥
yám aśvī́ nítyam upayā́ti yajñáṃ prajā́vantaṃ svapatyáṃ kṣáyaṃ naḥ | svájānmanā śéṣasā vāvṛdhānám ||
He whom the two Horsemen (Aśvins) ever approach in the sacrifice—may he become for us a dwelling rich in inner offspring and true mastery; self-born, increasing by his own remainder of power, he grows into fullness.
यम् । अ॒श्वी । नित्य॑म् । उ॒प॒ऽयाति॑ । य॒ज्ञम् । प्र॒जाऽव॑न्तम् । सु॒ऽअ॒प॒त्यम् । क्षय॑म् । नः॒ । स्वऽज॑न्मना । शेष॑सा । व॒वृ॒धा॒नम् ॥यम् । अश्वी । नित्यम् । उपयाति । यज्ञम् । प्रजावन्तम् । सुअपत्यम् । क्षयम् । नः । स्वजन्मना । शेषसा । ववृधानम् ॥yam | aśvī | nityam | upa-yāti | yajñam | prajāvantam | su-apatyam | kṣayam | naḥ | sva-janmanā | śeṣasā | vavṛdhānam