Sukta 6.9
वि मे कर्णा पतयतो वि चक्षुर्वीदं ज्योतिर्हृदय आहितं यत् । वि मे मनश्चरति दूरआधीः किं स्विद्वक्ष्यामि किमु नू मनिष्ये ॥
वि मे॒ कर्णा॑ पतयतो॒ वि चक्षु॒र्वी॒३॒॑दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत् । वि मे॒ मन॑श्चरति दू॒रआ॑धी॒: किं स्वि॑द्व॒क्ष्यामि॒ किमु॒ नू म॑निष्ये ॥
ví me kárṇā patayato ví cákṣur ví ídaṃ jyótir hṛ́daya ā́hitaṃ yát | ví me mánas carati dūrā́dhīḥ kíṃ svíd vakṣyā́mi kím u nū́ maniṣye ||
My ears fly open, my sight expands; for this Light has been set within the heart. My mind moves far-reaching in its thoughts—what indeed shall I utter, and what now shall I form within?
वि । मे॒ । कर्णा॑ । प॒त॒य॒तः॒ । वि । चक्षुः॑ । वि । इ॒दम् । ज्योतिः॑ । हृद॑ये । आऽहि॑तम् । यत् । वि । मे॒ । मनः॑ । च॒र॒ति॒ । दू॒रेऽआ॑धीः । किम् । स्वि॒त् । व॒क्ष्यामि॑ । किम् । ऊँ॒ इति॑ । नु । म॒नि॒ष्ये॒ ॥वि । मे । कर्णा । पतयतः । वि । चक्षुः । वि । इदम् । ज्योतिः । हृदये । आहितम् । यत् । वि । मे । मनः । चरति । दूरेआधीः । किम् । स्वित् । वक्ष्यामि । किम् । ऊँ इति । नु । मनिष्ये ॥vi | me | karṇā | patayataḥ | vi | cakṣuḥ | vi | idam | jyotiḥ | hṛdaye | āhitam | yat | vi | me | manaḥ | carati | dūre--ādhīḥ | kim | svit | vakṣyāmi | kim | oṃ iti | nu | maniṣye