Sukta 6.9
ध्रुवं ज्योतिर्निहितं दृशये कं मनो जविष्ठं पतयत्स्वन्तः । विश्वे देवाः समनसः सकेता एकं क्रतुमभि वि यन्ति साधु ॥
ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः । विश्वे॑ दे॒वाः सम॑नस॒: सके॑ता॒ एकं॒ क्रतु॑म॒भि वि य॑न्ति सा॒धु ॥
dhrúvaṃ jyótir ní-hitaṃ dṛśáye káṃ manó jáviṣṭhaṃ patáyat sv-ántaḥ | víśve devā́ḥ sá-manasáḥ sá-ketāḥ ékaṃ krátum abhí ví yanti sādhú ||
A firm Light is set down for seeing; and the mind, swiftest, flies within its own inwardness toward it. All the gods, of one mind and one intention, move rightly toward the single will (kratu) that is one.
ध्रु॒वम् । ज्योतिः॑ । निऽहि॑तम् । दृ॒शये॑ । कम् । मनः॑ । जवि॑ष्ठम् । प॒तय॑त्ऽसु । अ॒न्तरिति॑ । विश्वे॑ । दे॒वाः । सऽम॑नसः । सऽके॑ताः । एक॑म् । क्रतु॑म् । अ॒भि । वि । या॒न्ति॒ । सा॒धु ॥ध्रुवम् । ज्योतिः । निहितम् । दृशये । कम् । मनः । जविष्ठम् । पतयत्सु । अन्तरिति । विश्वे । देवाः । समनसः । सकेताः । एकम् । क्रतुम् । अभि । वि । यान्ति । साधु ॥dhruvam | jyotiḥ | ni-hitam | dṛśaye | kam | manaḥ | javiṣṭham | patayat-su | antariti | viśve | devāḥ | sa-manasaḥ | sa-ketāḥ | ekam | kratum | abhi | vi | yānti | sādhu