Sukta 6.9
विश्वे देवा अनमस्यन्भियानास्त्वामग्ने तमसि तस्थिवांसम् । वैश्वानरोऽवतूतये नोऽमर्त्योऽवतूतये नः ॥
विश्वे॑ दे॒वा अ॑नमस्यन्भिया॒नास्त्वाम॑ग्ने॒ तम॑सि तस्थि॒वांस॑म् । वै॒श्वा॒न॒रो॑ऽवतू॒तये॒ नोऽम॑र्त्योऽवतू॒तये॑ नः ॥
víśve devā́ anamasyan bhiyānā́s tvā́m agne támasi tasthivā́ṃsam | vaiśvānará 'vatūtáye nó 'mártyo 'vatūtáye naḥ ||
All the gods, afraid, bowed to thee, O Agni, standing in the darkness. May Vaiśvānara, the deathless, protect us for our fostering and upward leading—protect us for our fostering.
विश्वे॑ । दे॒वाः । अ॒न॒म॒स्य॒न् । भि॒या॒नाः । त्वाम् । अ॒ग्ने॒ । तम॑सि । त॒स्थि॒ऽवांस॑म् । वै॒श्वा॒न॒रः । अ॒व॒तु॒ । ऊ॒तये॑ । नः॒ । अम॑र्त्यः । अ॒व॒तु॒ । ऊ॒तये॑ । नः॒ ॥विश्वे । देवाः । अनमस्यन् । भियानाः । त्वाम् । अग्ने । तमसि । तस्थिवांसम् । वैश्वानरः । अवतु । ऊतये । नः । अमर्त्यः । अवतु । ऊतये । नः ॥viśve | devāḥ | anamasyan | bhiyānāḥ | tvām | agne | tamasi | tasthi-vāṃsam | vaiśvānaraḥ | avatu | ūtaye | naḥ | amartyaḥ | avatu | ūtaye | naḥ