Sukta 6.9
अयं होता प्रथमः पश्यतेममिदं ज्योतिरमृतं मर्त्येषु । अयं स जज्ञे ध्रुव आ निषत्तोऽमर्त्यस्तन्वा वर्धमानः ॥
अ॒यं होता॑ प्रथ॒मः पश्य॑ते॒ममि॒दं ज्योति॑र॒मृतं॒ मर्त्ये॑षु । अ॒यं स ज॑ज्ञे ध्रु॒व आ निष॒त्तोऽम॑र्त्यस्त॒न्वा॒३॒॑ वर्ध॑मानः ॥
ayáṃ hótā prathamáḥ páśyate mám idáṃ jyótir amṛ́taṃ mártyeṣu | ayáṃ sá jajñe dhrúvá ā́ ni-sattó 'mártyas tanvā́ vardhamā́naḥ ||
This is the Hotṛ who first beholds—this immortal Light within mortals. This he is: born and firmly seated, deathless, increasing by his own body (presence) within us.
अ॒यम् । होता॑ । प्र॒थ॒मः । पश्य॑त । इ॒मम् । इ॒दम् । ज्योतिः॑ । अ॒मृत॑म् । मर्त्ये॑षु । अ॒यम् । सः । ज॒ज्ञे॒ । ध्रु॒वः । आ । नि॒ऽस॒त्तः । अम॑र्त्यः । त॒न्वा॑ । वर्ध॑मानः ॥अयम् । होता । प्रथमः । पश्यत । इमम् । इदम् । ज्योतिः । अमृतम् । मर्त्येषु । अयम् । सः । जज्ञे । ध्रुवः । आ । निसत्तः । अमर्त्यः । तन्वा । वर्धमानः ॥ayam | hotā | prathamaḥ | paśyata | imam | idam | jyotiḥ | amṛtam | martyeṣu | ayam | saḥ | jajñe | dhruvaḥ | ā | ni-sattaḥ | amartyaḥ | tanvā | vardhamānaḥ