Sukta 6.9
नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः । कस्य स्वित्पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा ॥
नाहं तन्तुं॒ न वि जा॑ना॒म्योतुं॒ न यं वय॑न्ति सम॒रेऽत॑मानाः । कस्य॑ स्वित्पु॒त्र इ॒ह वक्त्वा॑नि प॒रो व॑दा॒त्यव॑रेण पि॒त्रा ॥
nāháṃ tántuṃ na ví jānā́mi yótuṃ na yáṃ váyanti sam-are átamānāḥ | kásya svít putrá ihá vaktvā́ni paró vadā́ty ávareṇa pitrā́ ||
I do not yet know the thread, nor clearly the weaving—nor that which the unwavering workers weave in the common struggle. Whose son here can speak these utterances, where the farther truth is voiced with the nearer father as its support?
न । अ॒हम् । तन्तु॑म् । न । वि । जा॒ना॒मि॒ । ओतु॑म् । न । यम् । वय॑न्ति । स॒म्ऽअ॒रे । अत॑मानाः । कस्य॑ । स्वि॒त् । पु॒त्रः । इ॒ह । वक्त्वा॑नि । प॒रः । व॒दा॒ति॒ । अव॑रेण । पि॒त्रा ॥न । अहम् । तन्तुम् । न । वि । जानामि । ओतुम् । न । यम् । वयन्ति । सम्अरे । अतमानाः । कस्य । स्वित् । पुत्रः । इह । वक्त्वानि । परः । वदाति । अवरेण । पित्रा ॥na | aham | tantum | na | vi | jānāmi | otum | na | yam | vayanti | sam-are | atamānāḥ | kasya | svit | putraḥ | iha | vaktvāni | paraḥ | vadāti | avareṇa | pitrā