Sukta 6.9
अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः । वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि ॥
अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभि॑: । वै॒श्वा॒न॒रो जाय॑मानो॒ न राजावा॑तिर॒ज्ज्योति॑षा॒ग्निस्तमां॑सि ॥
áhaś ca kṛṣṇám áhar árjunam ca ví vartete rájasī vedyā́bhiḥ | vaiśvānaráḥ jā́yamāno ná rājā́vātiraj jyótiṣā́gnís tamā́ṃsi ||
The dark day and the bright day move apart in their ordered courses. As Vaiśvānara is born like a king, Agni by his light overpasses the darknesses—establishing the rhythm where knowledge replaces obscurity in the human journey.
अहः॑ । च॒ । कृ॒ष्णम् । अहः॑ । अर्जु॑नम् । च॒ । वि । व॒र्ते॒ते॒ इति॑ । रज॑सी॒ इति॑ । वे॒द्याभिः॑ । वै॒श्वा॒न॒रः । जाय॑मानः । न । राजा॑ । अव॑ । अ॒ति॒र॒त् । ज्योति॑षा । अ॒ग्निः । तमां॑सि ॥अहः । च । कृष्णम् । अहः । अर्जुनम् । च । वि । वर्तेते इति । रजसी इति । वेद्याभिः । वैश्वानरः । जायमानः । न । राजा । अव । अतिरत् । ज्योतिषा । अग्निः । तमांसि ॥ahaḥ | ca | kṛṣṇam | ahaḥ | arjunam | ca | vi | varteteiti | rajasī iti | vedyābhiḥ | vaiśvānaraḥ | jāyamānaḥ | na | rājā | ava | atirat | jyotiṣā | agniḥ | tamāṃsi