Sukta 6.8
अदब्धेभिस्तव गोपाभिरिष्टेऽस्माकं पाहि त्रिषधस्थ सूरीन् । रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारीः स्तवानः ॥
अद॑ब्धेभि॒स्तव॑ गो॒पाभि॑रिष्टे॒ऽस्माकं॑ पाहि त्रिषधस्थ सू॒रीन् । रक्षा॑ च नो द॒दुषां॒ शर्धो॑ अग्ने॒ वैश्वा॑नर॒ प्र च॑ तारी॒: स्तवा॑नः ॥
adábdhebhiḥ táva gopā́bhir iṣṭe 'smā́kaṃ pāhi tri-sádastha sūrī́n | rákṣā ca no dadúṣāṃ śárdho agne vaiśvā́nara prá ca tārīḥ stavā́naḥ ||
With your unfailing guardians, O desired one, protect our illumined leaders; O you who have three seats, keep them safe. Guard too our company of givers; O Agni Vaiśvānara, praised, carry us across and onward beyond the hostile crossings.
अद॑ब्धेभिः । तव॑ । गो॒पाभिः॑ । इ॒ष्टे॒ । अ॒स्माक॑म् । पा॒हि॒ । त्रि॒ऽस॒द॒स्थ॒ । सू॒रीन् । रक्ष॑ । च॒ । नः॒ । द॒दुषा॑म् । शर्धः॑ । अ॒ग्ने॒ । वैश्वा॑नर । प्र । च॒ । ता॒रीः॒ । स्तवा॑नः ॥अदब्धेभिः । तव । गोपाभिः । इष्टे । अस्माकम् । पाहि । त्रिसदस्थ । सूरीन् । रक्ष । च । नः । ददुषाम् । शर्धः । अग्ने । वैश्वानर । प्र । च । तारीः । स्तवानः ॥adabdhebhiḥ | tava | gopābhiḥ | iṣṭe | asmākam | pāhi | tri-sadastha | sūrīn | rakṣa | ca | naḥ | daduṣām | śardhaḥ | agne | vaiśvānara | pra | ca | tārīḥ | stavānaḥ