Sukta 6.8
पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः । वैश्वानराय मतिर्नव्यसी शुचिः सोम इव पवते चारुरग्नये ॥
पृ॒क्षस्य॒ वृष्णो॑ अरु॒षस्य॒ नू सह॒: प्र नु वो॑चं वि॒दथा॑ जा॒तवे॑दसः । वै॒श्वा॒न॒राय॑ म॒तिर्नव्य॑सी॒ शुचि॒: सोम॑ इव पवते॒ चारु॑र॒ग्नये॑ ॥
pṛkṣásya vṛ́ṣṇo aruṣásya nū́ sáhaḥ | prá nu vocaṃ vidáthā jātá-vedasaḥ | vaiśvānaráya matír návyasī śúciḥ | sóma iva pavate cā́rur agnáye ||
Now I declare the strength of the flaming Bull, the ruddy one, in the sessions of awakening (vidathā) for Jātavedas. For Vaiśvānara a new, pure thought-current is distilled; it flows like Soma—clear and delightful—toward Agni within.
पृ॒क्षस्य॑ । वृष्णः॑ । अ॒रु॒षस्य॑ । नु । सहः॑ । प्र । नु । वो॒च॒म् । वि॒दथा॑ । जा॒तऽवे॑दसः । वै॒श्वा॒न॒राय॑ । म॒तिः । नव्य॑सी । शुचिः॑ । सोमः॑ऽइव । प॒व॒ते॒ । चारुः॑ । अ॒ग्नये॑ ॥पृक्षस्य । वृष्णः । अरुषस्य । नु । सहः । प्र । नु । वोचम् । विदथा । जातवेदसः । वैश्वानराय । मतिः । नव्यसी । शुचिः । सोमःइव । पवते । चारुः । अग्नये ॥pṛkṣasya | vṛṣṇaḥ | aruṣasya | nu | sahaḥ | pra | nu | vocam | vidathā | jāta-vedasaḥ | vaiśvānarāya | matiḥ | navyasī | śuciḥ | somaḥ-iva | pavate | cāruḥ | agnaye