Sukta 6.75
स्वादुषंसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः । चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥
स्वा॒दु॒षं॒सद॑: पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रित॒: शक्ती॑वन्तो गभी॒राः । चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः ॥
svā́du-saṃsádaḥ pitáro vayaḥ-dhā́ḥ kṛ́cchra-śritáḥ śaktī́vanto gabhīrā́ḥ | citrá-senā iṣú-balā amṛ́dhrāḥ sató-vīrā urávo vrāta-sāhā́ḥ ||
O Fathers, sweet in their session, upholding our vital increase—deep and mighty, those who take their stand in difficulty: of varied host, strong in the arrow-force, unbetraying; true-heroic, wide in being, conquerors of the encircling bands.
स्वा॒दु॒ऽसं॒सदः॑ । पि॒तरः॑ । व॒यः॒ऽधाः । कृ॒च्छ्र॒ऽश्रितः॑ । शक्ति॑ऽवन्तः । ग॒भी॒राः । चि॒त्रऽसे॑नाः । इषु॑ऽबलाः । अमृ॑ध्राः । स॒तःऽवी॑राः । उ॒रवः॑ । व्रा॒त॒ऽस॒हाः ॥स्वादुसंसदः । पितरः । वयःधाः । कृच्छ्रश्रितः । शक्तिवन्तः । गभीराः । चित्रसेनाः । इषुबलाः । अमृध्राः । सतःवीराः । उरवः । व्रातसहाः ॥svādu-saṃsadaḥ | pitaraḥ | vayaḥ-dhāḥ | kṛcchra-śritaḥ | śakti-vantaḥ | gabhīrāḥ | citra-senāḥ | iṣu-balāḥ | amṛdhrāḥ | sataḥ-vīrāḥ | uravaḥ | vrāta-sahāḥ