Sukta 6.75
रथवाहनं हविरस्य नाम यत्रायुधं निहितमस्य वर्म । तत्रा रथमुप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः ॥
र॒थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ । तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा॑ व॒यं सु॑मन॒स्यमा॑नाः ॥
ratha-vā́hanam havírasya nā́ma yátrā́yudham ní-hitam asya várma | tátrā rathám úpa śagmám sadema viśvā́hā vayáṃ su-manasyámānāḥ ||
‘Ratha-vāhana’ is the name of this offering-place where the weapon and its armor are set down. There may we draw near and take our seat by the victorious chariot, all the days, holding a clear and harmonious mind.
र॒थ॒ऽवाह॑नम् । ह॒विः । अ॒स्य॒ । नाम॑ । यत्र॑ । आयु॑धम् । निऽहि॑तम् । अ॒स्य॒ । वर्म॑ । तत्र॑ । रथ॑म् । उप॑ । श॒ग्मम् । स॒दे॒म॒ । वि॒श्वाहा॑ । व॒यम् । सु॒ऽम॒न॒स्यमा॑नाः ॥रथवाहनम् । हविः । अस्य । नाम । यत्र । आयुधम् । निहितम् । अस्य । वर्म । तत्र । रथम् । उप । शग्मम् । सदेम । विश्वाहा । वयम् । सुमनस्यमानाः ॥ratha-vāhanam | haviḥ | asya | nāma | yatra | āyudham | ni-hitam | asya | varma | tatra | ratham | upa | śagmam | sadema | viśvāhā | vayam | su-manasyamānāḥ