Sukta 6.75
ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा । पूषा नः पातु दुरितादृतावृधो रक्षा माकिर्नो अघशंस ईशत ॥
ब्राह्म॑णास॒: पित॑र॒: सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑ । पू॒षा न॑: पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥
brā́hmaṇāsaḥ pitáraḥ somyā́saḥ śivé no dyā́vāpṛthivī́ anehasā́ | pūṣā́ naḥ pātu duritā́d ṛta-vṛdho rákṣā mā́ki r no agha-śaṃsá īśata ||
May the Brahman-fathers, the Soma-filled Ancestors, be gracious to us; may Heaven-and-Earth bring us an untroubled wideness. May Pūṣan, increaser of ṛta, guard us from distress; protect—let none who speaks evil wield power over us.
ब्राह्म॑णासः । पित॑रः । सोम्या॑सः । शि॒वे इति॑ । नः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒ने॒हसा॑ । पू॒षा । नः॒ । पा॒तु॒ । दुः॒ऽइ॒तात् । ऋ॒त॒ऽवृ॒धः॒ । रक्ष॑ । माकिः॑ । नः॒ । अ॒घऽशं॑सः । ई॒श॒त॒ ॥ब्राह्मणासः । पितरः । सोम्यासः । शिवे इति । नः । द्यावापृथिवी इति । अनेहसा । पूषा । नः । पातु । दुःइतात् । ऋतवृधः । रक्ष । माकिः । नः । अघशंसः । ईशत ॥brāhmaṇāsaḥ | pitaraḥ | somyāsaḥ | śive iti | naḥ | dyāvāpṛthivī iti | anehasā | pūṣā | naḥ | pātu | duḥ-itāt | ṛta-vṛdhaḥ | rakṣa | mākiḥ | naḥ | agha-śaṃsaḥ | īśata