Sukta 6.75
तीव्रान्घोषान्कृण्वते वृषपाणयोऽश्वा रथेभिः सह वाजयन्तः । अवक्रामन्तः प्रपदैरमित्रान्क्षिणन्ति शत्रूँरनपव्ययन्तः ॥
ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः । अ॒व॒क्राम॑न्त॒: प्रप॑दैर॒मित्रा॑न्क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः ॥
tīvrā́n ghoṣā́n kṛṇvate vṛ́ṣa-pāṇayo’śvā́ rathébhiḥ sahá vā́jayantaḥ | ava-krā́mantaḥ prá-padair amítrān kṣiṇánti śátrūn ánapa-vyayantaḥ ||
The strong-handed Horses of the Force make sharp thunderous sounds; yoked with the chariots they bring the plenitude of power. With their forward-striding steps they press down the hostile movements and wear away the adversary forces, never turning aside from the march.
ती॒व्रान् । घोषा॑न् । कृ॒ण्व॒ते॒ । वृष॑ऽपाण॒यः । अश्वाः॑ । रथे॑भिः । स॒ह । वा॒जय॑न्तः । अ॒व॒ऽक्राम॑न्तः । प्रऽप॑दैः । अ॒मित्रा॑न् । क्षि॒णन्ति॑ । शत्रू॑न् । अन॑पऽव्ययन्तः ॥तीव्रान् । घोषान् । कृण्वते । वृषपाणयः । अश्वाः । रथेभिः । सह । वाजयन्तः । अवक्रामन्तः । प्रपदैः । अमित्रान् । क्षिणन्ति । शत्रून् । अनपव्ययन्तः ॥tīvrān | ghoṣān | kṛṇvate | vṛṣa-pāṇayaḥ | aśvāḥ | rathebhiḥ | saha | vājayantaḥ | ava-krāmantaḥ | pra-padaiḥ | amitrān | kṣiṇanti | śatrūn | anapa-vyayantaḥ