Sukta 6.75
रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः । अभीशूनां महिमानं पनायत मनः पश्चादनु यच्छन्ति रश्मयः ॥
रथे॒ तिष्ठ॑न्नयति वा॒जिन॑: पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः । अ॒भीशू॑नां महि॒मानं॑ पनायत॒ मन॑: प॒श्चादनु॑ यच्छन्ति र॒श्मय॑: ॥
rathé tíṣṭhann ayati vājínaḥ puró yátra-yatra kā́mayate suṣārathíḥ | abhī́śūnāṃ mahimā́naṃ panāyata mánaḥ paścā́d ánu yácchanti raśmáyaḥ ||
Standing on the chariot, the good charioteer leads the steeds forward wherever he wills. Celebrate the greatness of the reins; the rays (lines of force) follow after and hold to the mind.
रथे॑ । तिष्ठ॑न् । न॒य॒ति॒ । वा॒जिनः॑ । पु॒रः । यत्र॑ऽयत्र । का॒मय॑ते । सु॒ऽसा॒र॒थिः । अ॒भीशू॑नाम् । म॒हि॒मान॑म् । प॒ना॒य॒त॒ । मनः॑ । प॒श्चात् । अनु॑ । य॒च्छ॒न्ति॒ । र॒श्मयः॑ ॥रथे । तिष्ठन् । नयति । वाजिनः । पुरः । यत्रयत्र । कामयते । सुसारथिः । अभीशूनाम् । महिमानम् । पनायत । मनः । पश्चात् । अनु । यच्छन्ति । रश्मयः ॥rathe | tiṣṭhan | nayati | vājinaḥ | puraḥ | yatra-yatra | kāmayate | su-sārathiḥ | abhīśūnām | mahimānam | panāyata | manaḥ | paścāt | anu | yacchanti | raśmayaḥ