Sukta 6.75
ते आचरन्ती समनेव योषा मातेव पुत्रं बिभृतामुपस्थे । अप शत्रून्विध्यतां संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान् ॥
ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे॑ । अप॒ शत्रू॑न्विध्यतां संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रा॑न् ॥
té ācarantī́ sámaneva yóṣā mātéva putráṃ bibhṛtām upásthe | ápa śátrūn vidhyatāṃ saṃvidānè ā́rtnī imé vísphurantī amítrān ||
Moving in the encounter like a woman, and like a mother bearing her son in the lap—may these two bow-ends, acting in accord, strike away the enemies; these two arms/ends, quivering, shatter the hostile powers.
ते इति॑ । आ॒चर॑न्ती॒ इत्या॒ऽचर॑न्ती । सम॑नाऽइव । योषा॑ । मा॒ताऽइ॑व । पु॒त्रम् । बि॒भृ॒ता॒म् । उ॒पऽस्थे॑ । अप॑ । शत्रू॑न् । वि॒ध्य॒ता॒म् । स॒व्ँम्वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने । आर्त्नी॑ इति॑ । इ॒मे इति॑ । वि॒स्फु॒रन्ती॒ इति॑ वि॒ऽस्फु॒रन्ती॑ । अ॒मित्रा॑न् ॥ते इति । आचरन्ती इत्याचरन्ती । समनाइव । योषा । माताइव । पुत्रम् । बिभृताम् । उपस्थे । अप । शत्रून् । विध्यताम् । सव्ँम्विदाने इति सम्विदाने । आर्त्नी इति । इमे इति । विस्फुरन्ती इति विस्फुरन्ती । अमित्रान् ॥te iti | ācarantī ity ācarantī | samanāiva | yoṣā | mātāiva | putram | bibhṛtām | upa-sthe | apa | śatrūn | vidhyatām | saṃvidāne itisam-vidāne | ātnīriti | ime iti | visphurantī itivi-sphurantī | amitrān