Sukta 6.75
वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना । योषेव शिङ्क्ते वितताधि धन्वञ्ज्या इयं समने पारयन्ती ॥
व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं॑ प्रि॒यं सखा॑यं परिषस्वजा॒ना । योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या इ॒यं सम॑ने पा॒रय॑न्ती ॥
vakṣyántīvedā́ ganīganti kárṇaṃ priyáṃ sákhāyaṃ pariṣasvajānā́ | yóṣeva śíṅkte vitatā́dhi dhánvan jyā́ iyáṃ sámane pāráyantī ||
As if a woman longing, she comes again and again to the ear, embracing her dear companion; like a wife she adorns herself—this bowstring, stretched upon the bow, carrying one across in the encounter.
व॒क्ष्यन्ती॑ऽइव । इत् । आ । ग॒नी॒ग॒न्ति॒ । कर्ण॑म् । प्रि॒यम् । सखा॑यम् । प॒रि॒ऽस॒स्व॒जा॒ना । योषा॑ऽइव । शि॒ङ्क्ते॒ । विऽत॑ता । अधि॑ । धन्व॑न् । ज्या । इ॒यम् । सम॑ने । पा॒रय॑न्ती ॥वक्ष्यन्तीइव । इत् । आ । गनीगन्ति । कर्णम् । प्रियम् । सखायम् । परिसस्वजाना । योषाइव । शिङ्क्ते । वितता । अधि । धन्वन् । ज्या । इयम् । समने । पारयन्ती ॥vakṣyantī-iva | it | ā | ganīganti | karṇam | priyam | sakhāyam | pari-sasvajānā | yoṣāiva | śiṅkte | vi-tatā | adhi | dhanvan | jyā | iyam | samane | pārayantī