Sukta 6.75
मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् । उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥
मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम् । उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥
mármāṇi te vármaṇā chādayāmi sómas tvā rājā́ amṛ́tenā́nu vastām | urór várīyo váruṇas te kṛṇotu jáyantaṃ tvā́nu devā́ madantu ||
I cover your vital points with the armor: may Soma the King clothe you with immortality; may Varuṇa make for you a wider and safer expanse; may the gods rejoice in you as one who goes forward to victory.
मर्मा॑णि । ते॒ । वर्म॑णा । छा॒द॒या॒मि॒ । सोमः॑ । त्वा॒ । राजा॑ । अ॒मृते॑न । अनु॑ । व॒स्ता॒म् । उ॒रोः । वरी॑यः । वरु॑णः । ते॒ । कृ॒णो॒तु॒ । जय॑न्तम् । त्वा॒ । अनु॑ । दे॒वाः । म॒द॒न्तु॒ ॥मर्माणि । ते । वर्मणा । छादयामि । सोमः । त्वा । राजा । अमृतेन । अनु । वस्ताम् । उरोः । वरीयः । वरुणः । ते । कृणोतु । जयन्तम् । त्वा । अनु । देवाः । मदन्तु ॥marmāṇi | te | varmaṇā | chādayāmi | somaḥ | tvā | rājā | amṛtena | anu | vastām | uroḥ | varīyaḥ | varuṇaḥ | te | kṛṇotu | jayantam | tvā | anu | devāḥ | madantu