Sukta 6.75
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥
यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । तत्रा॑ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑ति॒: शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥
yátra bāṇā́ḥ sám-patanti kumārā́ viśikhā́ iva | tátrā no bráhmaṇas-pátir áditiḥ śárma yacchatu viśvā́hā śárma yacchatu ||
Where the arrows converge and fall thick like uncrested youths rushing together, there may Brahmaṇaspati and Aditi grant us peace and shelter; may they grant that protection at all times, in every way.
यत्र॑ । बा॒णाः । स॒म्ऽपत॑न्ति । कु॒मा॒राः । वि॒शि॒खाःऽइ॑व । तत्र॑ । नः॒ । ब्रह्म॑णः । पतिः॑ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ । वि॒श्वाहा॑ । शर्म॑ । य॒च्छ॒तु॒ ॥यत्र । बाणाः । सम्पतन्ति । कुमाराः । विशिखाःइव । तत्र । नः । ब्रह्मणः । पतिः । अदितिः । शर्म । यच्छतु । विश्वाहा । शर्म । यच्छतु ॥yatra | bāṇāḥ | sam-patanti | kumārāḥ | viśikhāḥ-iva | tatra | naḥ | brahmaṇaḥ | patiḥ | aditiḥ | śarma | yacchatu | viśvāhā | śarma | yacchatu