Sukta 6.75
अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान्पुमान्पुमांसं परि पातु विश्वतः ॥
अहि॑रिव भो॒गैः पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः । ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान्पुमा॒न्पुमां॑सं॒ परि॑ पातु वि॒श्वत॑: ॥
ahír iva bhógaīḥ páry eti bāhúṃ jyā́yā hetíṃ pari-bā́dhamānaḥ | hasta-ghnó víśvā vayúnāni vidvā́n pumā́n pumā́ṃsaṃ pári pātu viśvátāḥ ||
Like a serpent with its coils he circles the arm, warding off the stronger weapon. The Hand-slayer, knowing all the workings, the Manly Power—may he guard the man on every side.
अहिः॑ऽइव । भो॒गैः । परि॑ । ए॒ति॒ । बा॒हुम् । ज्यायाः॑ । हे॒तिम् । प॒रि॒ऽबाध॑मानः । ह॒स्त॒ऽघ्नः । विश्वा॑ । व॒युना॑नि । वि॒द्वान् । पुमा॑न् । पुमां॑सम् । परि॑ । पा॒तु॒ । वि॒श्वतः॑ ॥अहिःइव । भोगैः । परि । एति । बाहुम् । ज्यायाः । हेतिम् । परिबाधमानः । हस्तघ्नः । विश्वा । वयुनानि । विद्वान् । पुमान् । पुमांसम् । परि । पातु । विश्वतः ॥ahiḥ-iva | bhogaiḥ | pari | eti | bāhum | jyāyāḥ | hetim | pari-bādhamānaḥ | hasta-ghnaḥ | viśvā | vayunāni | vidvān | pumān | pumāṃsam | pari | pātu | viśvataḥ