Sukta 6.75
सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता । यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यमिषवः शर्म यंसन् ॥
सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभि॒: संन॑द्धा पतति॒ प्रसू॑ता । यत्रा॒ नर॒: सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑व॒: शर्म॑ यंसन् ॥
su-parṇáṃ vaste mṛgó asyā dánto góbhīḥ saṃ-naddhā patati prá-sūtā | yátrā nárāḥ sáṃ ca ví ca drávanti tátrāsmábhyam íṣavaḥ śárma yaṃsan ||
A bird of fair wing she wears; her ‘tooth’ is the wild beast; bound with the cows (rays) she flies forth when released. Where the men run together and scatter, there may the arrows for us bring shelter—may the directed forces become a protection, not a harm.
सु॒ऽप॒र्णम् । व॒स्ते॒ । मृ॒गः । अ॒स्याः॒ । दन्तः॑ । गोभिः॑ । सम्ऽन॑द्धा । प॒त॒ति॒ । प्रऽसू॑ता । यत्र॑ । नरः॒ । सम् । च॒ । वि । च॒ । द्रव॑न्ति । तत्र॑ । अ॒स्मभ्य॑म् । इष॑वः । शर्म॑ । यं॒स॒न् ॥सुपर्णम् । वस्ते । मृगः । अस्याः । दन्तः । गोभिः । सम्नद्धा । पतति । प्रसूता । यत्र । नरः । सम् । च । वि । च । द्रवन्ति । तत्र । अस्मभ्यम् । इषवः । शर्म । यंसन् ॥su-parṇam | vaste | mṛgaḥ | asyāḥ | dantaḥ | gobhiḥ | sam-naddhā | patati | pra-sūtā | yatra | naraḥ | sam | ca | vi | ca | dravanti | tatra | asmabhyam | iṣavaḥ | śarma | yaṃsan