Sukta 6.74
सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम् । अव स्यतं मुञ्चतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् ॥
सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् । अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥
somā́rudrā yuvám etā́ny asmè víśvā tanū́ṣu bheṣajā́ni dhattam | áva syataṃ muñcátaṃ yán no ásti tanū́ṣu baddháṃ kṛtám éno asmá t ||
O Soma and Rudra, you two place in us—all these medicines in our bodies. Cast down and release whatever is bound in our bodies, the formed fault and knot of wrong-doing, from us.
सोमा॑रुद्रा । यु॒वम् । ए॒तानि॑ । अ॒स्मे इति॑ । विश्वा॑ । त॒नूषु॑ । भे॒ष॒जानि॑ । ध॒त्त॒म् । अव॑ । स्य॒त॒म् । मु॒ञ्चत॑म् । यत् । नः॒ । अस्ति॑ । त॒नूषु॑ । ब॒द्धम् । कृ॒तम् । एनः॑ । अ॒स्मत् ॥सोमारुद्रा । युवम् । एतानि । अस्मे इति । विश्वा । तनूषु । भेषजानि । धत्तम् । अव । स्यतम् । मुञ्चतम् । यत् । नः । अस्ति । तनूषु । बद्धम् । कृतम् । एनः । अस्मत् ॥somārudrā | yuvam | etāni | asme iti | viśvā | tanūṣu | bheṣajāni | dhattam | ava | syatam | muñcatam | yat | naḥ | asti | tanūṣu | baddham | kṛtam | enaḥ | asmat