Sukta 6.74
तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृळतं नः । प्र नो मुञ्चतं वरुणस्य पाशाद्गोपायतं नः सुमनस्यमाना ॥
ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒शेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑ळतं नः । प्र नो॑ मुञ्चतं॒ वरु॑णस्य॒ पाशा॑द्गोपा॒यतं॑ नः सुमन॒स्यमा॑ना ॥
tigmā́yudhau tigmáhetī suśévau somā́rudrāv ihá sú mṛḷataṃ naḥ | prá no muñcataṃ váruṇasya pā́śād gopā́yataṃ naḥ sumanasyámānā ||
O Soma and Rudra, keen-weaponed, keen-darted, yet gracious—here indeed be very merciful to us. Release us forward from Varuṇa’s noose, and guard us, holding a happy, benevolent mind toward us.
ति॒ग्मऽआ॑युधौ । ति॒ग्महे॑ती॒ इति॑ ति॒ग्मऽहे॑ती । सु॒ऽशेवौ॑ । सोमा॑रुद्रा । इ॒ह । सु । मृ॒ळ॒त॒म् । नः॒ । प्र । नः॒ । मु॒ञ्च॒त॒म् । वरु॑णस्य । पाशा॑त् । गो॒पा॒यत॑म् । नः॒ । सु॒ऽम॒न॒स्यमा॑ना ॥तिग्मआयुधौ । तिग्महेती इति तिग्महेती । सुशेवौ । सोमारुद्रा । इह । सु । मृळतम् । नः । प्र । नः । मुञ्चतम् । वरुणस्य । पाशात् । गोपायतम् । नः । सुमनस्यमाना ॥tigma-āyudhau | tigmahetī ititigma-hetī | su-śevau | somārudrā | iha | su | mṛḷatam | naḥ | pra | naḥ | muñcatam | varuṇasya | pāśāt | gopāyatam | naḥ | su-manasyamānā