Sukta 6.74
सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश । आरे बाधेथां निॠतिं पराचैरस्मे भद्रा सौश्रवसानि सन्तु ॥
सोमा॑रुद्रा॒ वि वृ॑हतं॒ विषू॑ची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑ । आ॒रे बा॑धेथां॒ निॠ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ सन्तु ॥
somā́rudrā ví vṛhataṃ viṣū́cīm amī́vā yā́ no gáyam āviveśá | āré bādhethāṃ níṛtiṃ parācáiḥ asmè bhadrā́ sauśravasā́ni santu ||
O Soma and Rudra, tear away and cast out the disease that strikes from many sides, which has entered our vital being. Drive far away the power of dissolution (Nirṛti) by paths that turn outward; in us may there be auspicious, fair-famed strengths and fulfillments.
सोमा॑रुद्रा । वि । वृ॒ह॒त॒म् । विषू॑चीम् । अमी॑वा । या । नः॒ । गय॑म् । आ॒ऽवि॒वेश॑ । आ॒रे । बा॒धे॒था॒म् । निःऽऋ॑तिम् । प॒रा॒चैः । अ॒स्मे इति॑ । भ॒द्रा । सौ॒श्र॒व॒सानि॑ । स॒न्तु॒ ॥सोमारुद्रा । वि । वृहतम् । विषूचीम् । अमीवा । या । नः । गयम् । आविवेश । आरे । बाधेथाम् । निःऋतिम् । पराचैः । अस्मे इति । भद्रा । सौश्रवसानि । सन्तु ॥somārudrā | vi | vṛhatam | viṣūcīm | amīvā | yā | naḥ | gayam | āviveśa | āre | bādhethām | niḥ-ṛtim | parācaiḥ | asme iti | bhadrā | sauśravasāni | santu