Sukta 6.73
जनाय चिद्य ईवत उ लोकं बृहस्पतिर्देवहूतौ चकार । घ्नन्वृत्राणि वि पुरो दर्दरीति जयञ्छत्रूँरमित्रान्पृत्सु साहन् ॥
जना॑य चि॒द्य ईव॑त उ लो॒कं बृह॒स्पति॑र्दे॒वहू॑तौ च॒कार॑ । घ्नन्वृ॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जय॒ञ्छत्रूँ॑र॒मित्रा॑न्पृ॒त्सु साह॑न् ॥
janā́ya cid yá ī́vate u lokáṃ bṛ́haspátir deváhūtau cakā́ra | ghnán vṛtrā́ṇi ví púro dardarīti jáyañ chátrūn amítrān pṛtsú sā́han ||
Even for the man who strives, Bṛhaspati has made a world in the divine calling. Smiting the obstructers, he shatters the strongholds; conquering the foes, he prevails in the battles.
जना॑य । चि॒त् । यः । ईव॑ते । ऊँ॒ इति॑ । लो॒कम् । बृह॒स्पतिः॑ । दे॒वऽहू॑तौ । च॒कार॑ । घ्नन् । वृ॒त्राणि॑ । वि । पुरः॑ । द॒र्द॒री॒ति॒ । जय॑न् । शत्रू॑न् । अ॒मित्रा॑न् । पृ॒त्ऽसु । साह॑न् ॥जनाय । चित् । यः । ईवते । ऊँ इति । लोकम् । बृहस्पतिः । देवहूतौ । चकार । घ्नन् । वृत्राणि । वि । पुरः । दर्दरीति । जयन् । शत्रून् । अमित्रान् । पृत्सु । साहन् ॥janāya | cit | yaḥ | īvate | oṃ iti | lokam | bṛhaspatiḥ | deva-hūtau | cakāra | ghnan | vṛtrāṇi | vi | puraḥ | dardarīti | jayan | śatrūn | amitrān | pṛt-su | sāhan