Sukta 6.73
यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् । द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति ॥
यो अ॑द्रि॒भित्प्र॑थम॒जा ऋ॒तावा॒ बृह॒स्पति॑राङ्गिर॒सो ह॒विष्मा॑न् । द्वि॒बर्ह॑ज्मा प्राघर्म॒सत्पि॒ता न॒ आ रोद॑सी वृष॒भो रो॑रवीति ॥
yó adribhít prathamajā́ ṛtā́vā bṛ́haspátir āṅgirásō havíṣmān | dvibárhajmā prāgharmasát pitā́ na ā́ rodasī vṛṣabhó roravīti ||
He who breaks the rocks, first-born of the Truth, Bṛhaspati the Angiras, rich in the offering. Double in his vast growth, seated in the blazing heat, our Father—he roars to the two worlds as the Bull of power.
यः । अ॒द्रि॒ऽभित् । प्र॒थ॒म॒ऽजाः । ऋ॒तऽवा॑ । बृह॒स्पतिः॑ । आ॒ङ्गि॒र॒सः । ह॒विष्मा॑न् । द्वि॒बर्ह॑ऽज्मा । प्रा॒घ॒र्म॒ऽसत् । पि॒ता । नः॒ । आ । रोद॑सी॒ इति॑ । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ॥यः । अद्रिभित् । प्रथमजाः । ऋतवा । बृहस्पतिः । आङ्गिरसः । हविष्मान् । द्विबर्हज्मा । प्राघर्मसत् । पिता । नः । आ । रोदसी इति । वृषभः । रोरवीति ॥yaḥ | adri-bhit | prathama-jāḥ | ṛta-vā | bṛhaspatiḥ | āṅgirasaḥ | haviṣmān | dvibarha-jmā | prāgharma-sat | pitā | naḥ | ā | rodasī iti | vṛṣabhaḥ | roravīti