Sukta 6.73
बृहस्पतिः समजयद्वसूनि महो व्रजान्गोमतो देव एषः । अपः सिषासन्त्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ॥
बृह॒स्पति॒: सम॑जय॒द्वसू॑नि म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः । अ॒पः सिषा॑स॒न्त्स्व१॒॑रप्र॑तीतो॒ बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ॥
bṛ́haspátiḥ sám ajayad vásūni mahó vrājā́n gómato devá eṣáḥ | apáḥ sisāsánt svàr ápratīto bṛ́haspátir hánty amítram arkáiḥ ||
Bṛhaspati has won together the riches—great herds full of rays; this god. Desiring the waters and the Swar, irresistible, Bṛhaspati strikes the hostile power with his hymns of light.
बृह॒स्पतिः॑ । सम् । अ॒ज॒य॒त् । वसू॑नि । म॒हः । व्र॒जान् । गोऽम॑तः । दे॒वः । ए॒षः । अ॒पः । सिसा॑सन् । स्वः॑ । अप्र॑तिऽइतः । बृह॒स्पतिः॑ । हन्ति॑ । अ॒मित्र॑म् । अ॒र्कैः ॥बृहस्पतिः । सम् । अजयत् । वसूनि । महः । व्रजान् । गोमतः । देवः । एषः । अपः । सिसासन् । स्वः । अप्रतिइतः । बृहस्पतिः । हन्ति । अमित्रम् । अर्कैः ॥bṛhaspatiḥ | sam | ajayat | vasūni | mahaḥ | vrajān | go--mataḥ | devaḥ | eṣaḥ | apaḥ | sisāsan | svaḥ | aprati-itaḥ | bṛhaspatiḥ | hanti | amitram | akairḥ