Sukta 6.72
इन्द्रासोमा पक्वमामास्वन्तर्नि गवामिद्दधथुर्वक्षणासु । जगृभथुरनपिनद्धमासु रुशच्चित्रासु जगतीष्वन्तः ॥
इन्द्रा॑सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा॑सु । ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः ॥
indrā́somā pakvám āmā́sv antár ní gavā́m íd dadhathur vakṣáṇāsu | jagṛbháthur anapi-naddhám ā́su rúśac citrā́su jágatīṣv antáḥ ||
Indra and Soma, within the unripe you set the ripeness; you placed the rays (cows) within their pens. You seized what was not bound, shining within the many-coloured moving worlds, inwardly.
इन्द्रा॑सोमा । प॒क्वम् । आ॒मासु॑ । अ॒न्तः । नि । गवा॑म् । इत् । द॒ध॒थुः॒ । व॒क्षणा॑सु । ज॒गृ॒भथुः॑ । अन॑पिऽनद्धम् । आ॒सु॒ । रुश॑त् । चि॒त्रासु॑ । जग॑तीषु । अ॒न्तरिति॑ ॥इन्द्रासोमा । पक्वम् । आमासु । अन्तः । नि । गवाम् । इत् । दधथुः । वक्षणासु । जगृभथुः । अनपिनद्धम् । आसु । रुशत् । चित्रासु । जगतीषु । अन्तरिति ॥indrāsomā | pakvam | āmāsu | antaḥ | ni | gavām | it | dadhathuḥ | vakṣaṇāsu | jagṛbhathuḥ | anapi-naddham | āsu | ruśat | citrāsu | jagatīṣu | antariti