Sukta 6.72
इन्द्रासोमा युवमङ्ग तरुत्रमपत्यसाचं श्रुत्यं रराथे । युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहमुग्रा ॥
इन्द्रा॑सोमा यु॒वम॒ङ्ग तरु॑त्रमपत्य॒साचं॒ श्रुत्यं॑ रराथे । यु॒वं शुष्मं॒ नर्यं॑ चर्ष॒णिभ्य॒: सं वि॑व्यथुः पृतना॒षाह॑मुग्रा ॥
indrā́somā yuvám aṅgá tarútram apatya-sā́caṃ śrútyaṃ rarāthe | yuváṃ śúṣmaṃ náryaṃ carṣaṇí-bhyaḥ sáṃ vivyathuḥ pṛtanā-sā́ham ugrā́ ||
Indra and Soma, you two indeed gave strength of rescue, winning the future, worthy to be heard. You joined and spread out for the peoples the manly force, the battle-conquering might, O mighty ones.
इन्द्रा॑सोमा । यु॒वम् । अ॒ङ्ग । तरु॑त्रम् । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । र॒रा॒थे॒ इति॑ । यु॒वम् । शुष्म॑म् । नर्य॑म् । च॒र्ष॒णिऽभ्यः॑ । सम् । वि॒व्य॒थुः॒ । पृ॒त॒ना॒ऽसह॑म् । उ॒ग्रा॒ ॥इन्द्रासोमा । युवम् । अङ्ग । तरुत्रम् । अपत्यसाचम् । श्रुत्यम् । रराथे इति । युवम् । शुष्मम् । नर्यम् । चर्षणिभ्यः । सम् । विव्यथुः । पृतनासहम् । उग्रा ॥indrāsomā | yuvam | aṅga | tarutram | apatya-sācam | śrutyam | rarātheiti | yuvam | śuṣmam | naryam | carṣaṇi-bhyaḥ | sam | vivyathuḥ | pṛtanāsaham | ugrā