Sukta 6.72
इन्द्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत । प्रार्णांस्यैरयतं नदीनामा समुद्राणि पप्रथुः पुरूणि ॥
इन्द्रा॑सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत । प्रार्णां॑स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑ ॥
indrā́somāv áhim apáḥ pariṣṭhā́ṃ hátho vṛtrám ánu vāṃ dyáur amanyata | prá arṇā́ṃsy airayataṃ nadī́nām ā́ samudrā́ṇi paprathuḥ purū́ṇi ||
Indra and Soma, you smote the Serpent who held the waters in enclosure; heaven itself acknowledged your act. You set the flood-streams of the rivers in motion; you made many seas widen and fill.
इन्द्रा॑सोमौ । अहि॑म् । अ॒पः । प॒रि॒ऽस्थाम् । ह॒थः । वृ॒त्रम् । अनु॑ । वा॒म् । द्यौः । अ॒म॒न्य॒त॒ । प्र । अर्णां॑सि । ऐ॒र॒य॒त॒म् । न॒दीना॑म् । आ । स॒मु॒द्राणि॑ । प॒प्र॒थुः॒ । पु॒रूणि॑ ॥इन्द्रासोमौ । अहिम् । अपः । परिस्थाम् । हथः । वृत्रम् । अनु । वाम् । द्यौः । अमन्यत । प्र । अर्णांसि । ऐरयतम् । नदीनाम् । आ । समुद्राणि । पप्रथुः । पुरूणि ॥indrāsomau | ahim | apaḥ | pari-sthām | hathaḥ | vṛtram | anu | vām | dyauḥ | amanyata | pra | arṇāṃsi | airayatam | nadīnām | ā | samudrāṇi | paprathuḥ | purūṇi