Sukta 6.72
इन्द्रासोमा वासयथ उषासमुत्सूर्यं नयथो ज्योतिषा सह । उप द्यां स्कम्भथुः स्कम्भनेनाप्रथतं पृथिवीं मातरं वि ॥
इन्द्रा॑सोमा वा॒सय॑थ उ॒षास॒मुत्सूर्यं॑ नयथो॒ ज्योति॑षा स॒ह । उप॒ द्यां स्क॒म्भथु॒: स्कम्भ॑ने॒नाप्र॑थतं पृथि॒वीं मा॒तरं॒ वि ॥
indrā́somā vāsáyatha uṣā́sám ut sū́ryaṃ nayatho jyótiṣā sahá | úpa dyā́ṃ skambháthuḥ skámbhanenā́prathataṃ pṛthivī́ṃ mātáraṃ ví ||
Indra and Soma, you cause the Dawn to shine and you lead forth the Sun with the power of light. You uphold heaven by your upholding force; you widen out the Mother Earth in her vastness.
इन्द्रा॑सोमा । वा॒सय॑थः । उ॒षस॑म् । उत् । सूर्य॑म् । न॒य॒थः॒ । ज्योति॑षा । स॒ह । उप॑ । द्याम् । स्क॒म्भथुः॑ । स्कम्भ॑नेन । अप्र॑थतम् । पृ॒थि॒वीम् । मा॒तर॑म् । वि ॥इन्द्रासोमा । वासयथः । उषसम् । उत् । सूर्यम् । नयथः । ज्योतिषा । सह । उप । द्याम् । स्कम्भथुः । स्कम्भनेन । अप्रथतम् । पृथिवीम् । मातरम् । वि ॥indrāsomā | vāsayathaḥ | uṣasam | ut | sūryam | nayathaḥ | jyotiṣā | saha | upa | dyām | skambhathuḥ | skambhanena | aprathatam | pṛthivīm | mātaram | vi