Sukta 6.7
वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना । तस्येदु विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः ॥
वै॒श्वा॒न॒रस्य॒ विमि॑तानि॒ चक्ष॑सा॒ सानू॑नि दि॒वो अ॒मृत॑स्य के॒तुना॑ । तस्येदु॒ विश्वा॒ भुव॒नाधि॑ मू॒र्धनि॑ व॒या इ॑व रुरुहुः स॒प्त वि॒स्रुह॑: ॥
vaiśvānarasya ví-mitāni cákṣasā sānū́ni divó amṛ́tasya ketúnā | tásyed u víśvā bhúvanā́dhi mū́rdhani vayā́ iva ruruhuḥ saptá vi-srúhaḥ ||
By the seer-vision (cakṣasā) the high ridges of Heaven are measured out for Vaiśvānara, by the luminous banner of the Immortal. Upon his very head all the worlds are set; like winged powers they rise—seven currents that stream apart, the many-rayed movements of the one Flame.
वै॒श्वा॒न॒रस्य॑ । विऽमि॑तानि । चक्ष॑सा । सानू॑नि । दि॒वः । अ॒मृत॑स्य । के॒तुना॑ । तस्य॑ । इत् । ऊँ॒ इति॑ । विश्वा॑ । भुव॑ना । अधि॑ । मू॒र्धनि॑ । व॒याःऽइ॑व । रु॒रु॒हुः॒ । स॒प्त । वि॒ऽस्रुहः॑ ॥वैश्वानरस्य । विमितानि । चक्षसा । सानूनि । दिवः । अमृतस्य । केतुना । तस्य । इत् । ऊँ इति । विश्वा । भुवना । अधि । मूर्धनि । वयाःइव । रुरुहुः । सप्त । विस्रुहः ॥vaiśvānarasya | vi-mitāni | cakṣasā | sānūni | divaḥ | amṛtasya | ketunā | tasya | it | oṃ iti | viśvā | bhuvanā | adhi | mūrdhani | vayāḥ-iva | ruruhuḥ | sapta | vi-sruhaḥ